ऋतस्य ऋतेनादित्या यजत्रा मुञ्चतेह नः । यज्ञं यद्यज्ञवाहसः शिक्षन्तो नोपशेकिम
मेदस्वता यजमानाः स्रुचाज्यानि जुह्वतः । अकामा विश्वे वो देवाः शिक्षन्तो नोप शेकिम
यद्विद्वांसो यदविद्वांस एनांसि चकृमा वयम् । यूयं नस्तस्मान् मुञ्चत विश्वे देवाः सजोषसः
यदि जाग्रद्यदि स्वपन्न् एन एनस्योऽकरम् । भूतं मा तस्माद्भव्यं च द्रुपदादिव मुञ्चताम्
द्रुपदादिव मुमुचानः स्विन्नः स्नात्वा मलादिव । पूतं पवित्रेणेवाज्यं विश्वे शुम्भन्तु मैनसः
6.116 यद्यामं चक्रुर्निखनन्तो अग्रे कार्षीवणा अन्नविदो न विद्यया । वैवस्वते राजनि तज्जुहोम्यथ यज्ञियं मधुमदस्तु नोऽन्नम्
वैवस्वतः कृणवद्भागधेयं मधुभागो मधुना सं सृजाति । मातुर्यदेन इषितं न आगन् यद्वा पिताऽपराद्धो जिहीदे
यदीदं मातुर्यदि पितुर्नः परि भ्रातुः पुत्राच्चेतस एन आगन् । यावन्तो अस्मान् पितरः सचन्ते तेषां सर्वेषां शिवो अस्तु मन्युः
अपमित्यमप्रतीत्तं यदस्मि यमस्य येन बलिना चरामि । इदं तदग्ने अनृणो भवामि त्वं पाशान् विचृतं वेत्थ सर्वान्
इहैव सन्तः प्रति दद्म एनज्जीवा जीवेभ्यो नि हराम एनत्। अपमित्य धान्यं यज्जघसाहमिदं तदग्ने अनृणो भवामि
अनृणा अस्मिन्न् अनृणाः परस्मिन् तृतीये लोके अनृणाः स्याम । ये देवयानाः पितृयाणश्च लोकाः सर्वान् पथो अनृणा आ क्षियेम
यद्धस्ताभ्यां चकृम किल्बिषाण्यक्षाणां गत्नुमुपलिप्समानाः । उग्रंपश्ये उग्रजितौ तदद्याप्सरसावनु दत्तामृणं नः
उग्रंपश्ये राष्ट्रभृत्किल्बिषाणि यदक्षवृत्तमनु दत्तं न एतत्। ऋणान् नो न ऋणमेर्त्समानो यमस्य लोके अधिरज्जुरायत्
यस्मा ऋणं यस्य जायामुपैमि यं याचमानो अभ्यैमि देवाः । ते वाचं वादिषुर्मोत्तरां मद्देवपत्नी अप्सरसावधीतम्
6.119 यददीव्यन्न् ऋणमहं कृणोम्यदास्यन्न् अग्ने उत संगृणामि । वैश्वानरो नो अधिपा वसिष्ठ उदिन् नयाति सुकृतस्य लोकम्
वैश्वानराय प्रति वेदयामि यदि ऋणं संगरो देवतासु । स एतान् पाशान् विचृतं वेद सर्वान् अथ पक्वेन सह सं भवेम
वैश्वानरः पविता मा पुनातु यत्संगरमभिधावाम्याशाम् । अनाजानन् मनसा याचमानो यत्तत्रैनो अप तत्सुवामि
यदन्तरिक्षं पृथिवीमुत द्यां यन् मातरं पितरं वा जिहिंसिम । अयं तस्माद्गार्हपत्यो नो अग्निरुदिन् नयाति सुकृतस्य लोकम्
भूमिर्मातादितिर्नो जनित्रं भ्रातान्तरिक्षमभिशस्त्या नः । द्यौर्नः पिता पित्र्याच्छं भवाति जामिमृत्वा माव पत्सि लोकात्
यत्रा सुहार्दः सुकृतो मदन्ति विहाय रोगं तन्वः स्वायाः । अश्लोना अङ्गैरह्रुताः स्वर्गे तत्र पश्येम पितरौ च पुत्रान्
विषाणा पाशान् वि ष्याध्यस्मद्य उत्तमा अधमा वारुणा ये । दुष्वप्न्यं दुरितं नि ष्वास्मदथ गछेम सुकृतस्य लोकम्
यद्दारुणि बध्यसे यच्च रज्ज्वां यद्भूम्यां बध्यसे यच्च वाचा । अयं तस्माद्गार्हपत्यो नो अग्निरुदिन् नयाति सुकृतस्य लोकम्
उदगातां भगवती विचृतौ नाम तारके । प्रेहामृतस्य यच्छतां प्रैतु बद्धकमोचनम्
वि जिहीष्व लोकं कृणु बन्धान् मुञ्चासि बद्धकम् । योन्या इव प्रच्युतो गर्भः पथः सर्वामनु क्षिय
एतं भागं परि ददामि विद्वान् विश्वकर्मन् प्रथमजा ऋतस्य । अस्माभिर्दत्तं जरसः परस्तादछिन्नं तन्तुमनु सं तरेम
ततं तन्तुमन्वेके तरन्ति येषां दत्तं पित्र्यमायनेन । अबन्ध्वेके ददतः प्रयच्छन्तो दातुं चेच्छिक्षान्त्स स्वर्ग एव
अन्वारभेथामनुसंरभेथामेतं लोकं श्रद्दधानाः सचन्ते । यद्वां पक्वं परिविष्टमग्नौ तस्य गुप्तये दम्पती सं श्रयेथाम्
यज्ञं यन्तं मनसा बृहन्तमन्वारोहामि तपसा सयोनिः । उपहूता अग्ने जरसः परस्तात्तृतीये नाके सधमादं मदेम
शुद्धाः पूता योषितो यज्ञिया इमा ब्रह्मणां हस्तेषु प्रपृथक्सादयामि । यत्काम इदमभिषिञ्चामि वोऽहमिन्द्रो मरुत्वान्त्स ददातु तन् मे
एतं सधस्थाः परि वो ददामि यं शेवधिमावहाज्जातवेदः । अन्वागन्ता यजमानः स्वस्ति तं स्म जानीत परमे व्योमन्