यां मेधामृभवो विदुर्यां मेधामसुरा विदुः । ऋषयो भद्रां मेधां यां विदुस्तां मय्या वेशयामसि
यामृषयो भूतकृतो मेधां मेधाविनो विदुः । तया मामद्य मेधयाग्ने मेधाविनं कृणु
मेधां सायं मेधां प्रातर्मेधां मध्यन्दिनं परि । मेधां सूर्यस्य रश्मिभिर्वचसा वेशयामहे
पिप्पली क्षिप्तभेषज्युतातिविद्धभेषजी । तां देवाः समकल्पयन्न् इयं जीवितवा अलम्
पिप्पल्यः समवदन्तायतीर्जननादधि । यं जीवमश्नवामहै न स रिष्याति पूरुषः
असुरास्त्वा न्यखनन् देवास्त्वोदवपन् पुनः । वातीकृतस्य भेषजीमथो क्षिप्तस्य भेषजीम्
प्रत्नो हि कमीड्यो अध्वरेषु सनाच्च होता नव्यश्च सत्सि । स्वां चाग्ने तन्वं पिप्रायस्वास्मभ्यं च सौभगमा यजस्व
ज्येष्ठघ्न्यां जातो विचृतोर्यमस्य मूलबर्हणात्परि पाह्येनम् । अत्येनं नेषद्दुरितानि विश्वा दीर्घायुत्वाय शतशारदाय
व्याघ्रेऽह्न्यजनिष्ट वीरो नक्षत्रजा जायमानः सुवीरः । स मा वधीत्पितरं वर्धमानो मा मातरं प्र मिनीज्जनित्रीम्
इमं मे अग्ने पुरुषं मुमुग्ध्ययं यो बद्धः सुयतो लालपीति । अतोऽधि ते कृणवद्भागधेयं यदानुन्मदितोऽसति
अग्निष्टे नि शमयतु यदि ते मन उद्युतम् । कृणोमि विद्वान् भेषजं यथानुन्मदितोऽससि
देवैनसादुन्मदितमुन्मत्तं रक्षसस्परि । कृणोमि विद्वान् भेषजं यदानुन्मदितोऽसति
पुनस्त्वा दुरप्सरसः पुनरिन्द्रः पुनर्भगः । पुनस्त्वा दुर्विश्वे देवा यथानुन्मदितोऽससि
मा ज्येष्ठं वधीदयमग्न एषां मूलबर्हणात्परि पाह्येनम् । स ग्राह्याः पाशान् वि चृत प्रजानन् तुभ्यं देवा अनु जानन्तु विश्वे
उन् मुञ्च पाशांस्त्वमग्न एषां त्रयस्त्रिभिरुत्सिता येभिरासन् । स ग्राह्याः पाशान् वि चृत प्रजानन् पितापुत्रौ मातरं मुञ्च सर्वान्
येभिः पाशैः परिवित्तो विबद्धोऽङ्गेअङ्ग आर्पित उत्सितश्च । वि ते मुच्यन्तं विमुचो हि सन्ति भ्रूणघ्नि पूषन् दुरितानि मृक्ष्व
त्रिते देवा अमृजतैतदेनस्त्रित एनन् मनुष्येषु ममृजे । ततो यदि त्वा ग्राहिरानशे तां ते देवा ब्रह्मणा नाशयन्तु
मरीचीर्धूमान् प्र विशानु पाप्मन्न् उदारान् गच्छोत वा नीहारान् । नदीनं फेनामनु तान् वि नश्य भ्रूणघ्नि पूषन् दुरितानि मृक्ष्व
द्वादशधा निहितं त्रितस्यापमृष्टं मनुष्यैनसानि । ततो यदि त्वा ग्राहिरानशे तां ते देवा ब्रह्मणा नाशयन्तु
यद्देवा देवहेडनं देवासश्चकृम वयम् । आदित्यास्तस्मान् नो युयमृतस्य ऋतेन मुञ्चत
ऋतस्य ऋतेनादित्या यजत्रा मुञ्चतेह नः । यज्ञं यद्यज्ञवाहसः शिक्षन्तो नोपशेकिम
मेदस्वता यजमानाः स्रुचाज्यानि जुह्वतः । अकामा विश्वे वो देवाः शिक्षन्तो नोप शेकिम
यद्विद्वांसो यदविद्वांस एनांसि चकृमा वयम् । यूयं नस्तस्मान् मुञ्चत विश्वे देवाः सजोषसः
यदि जाग्रद्यदि स्वपन्न् एन एनस्योऽकरम् । भूतं मा तस्माद्भव्यं च द्रुपदादिव मुञ्चताम्
द्रुपदादिव मुमुचानः स्विन्नः स्नात्वा मलादिव । पूतं पवित्रेणेवाज्यं विश्वे शुम्भन्तु मैनसः
6.116 यद्यामं चक्रुर्निखनन्तो अग्रे कार्षीवणा अन्नविदो न विद्यया । वैवस्वते राजनि तज्जुहोम्यथ यज्ञियं मधुमदस्तु नोऽन्नम्
वैवस्वतः कृणवद्भागधेयं मधुभागो मधुना सं सृजाति । मातुर्यदेन इषितं न आगन् यद्वा पिताऽपराद्धो जिहीदे
यदीदं मातुर्यदि पितुर्नः परि भ्रातुः पुत्राच्चेतस एन आगन् । यावन्तो अस्मान् पितरः सचन्ते तेषां सर्वेषां शिवो अस्तु मन्युः
अपमित्यमप्रतीत्तं यदस्मि यमस्य येन बलिना चरामि । इदं तदग्ने अनृणो भवामि त्वं पाशान् विचृतं वेत्थ सर्वान्
इहैव सन्तः प्रति दद्म एनज्जीवा जीवेभ्यो नि हराम एनत्। अपमित्य धान्यं यज्जघसाहमिदं तदग्ने अनृणो भवामि