अनवद्याभिः समु जग्म आभिरप्सरास्वपि गन्धर्व आसीत्। समुद्र आसां सदनं म आहुर्यतः सद्य आ च परा च यन्ति
अभ्रिये दिद्युन् नक्षत्रिये या विश्वावसुं गन्धर्वं सचध्वे । ताभ्यो वो देवीर्नम इत्कृणोमि
याः क्लन्दास्तमिषीचयोऽक्षकामा मनोमुहः । ताभ्यो गन्धर्वभ्योऽप्सराभ्योऽकरं नमः
अदो यदवधावत्यवत्कमधि पर्वतात्। तत्ते कृणोमि भेषजं सुभेषजं यथाससि
आदङ्गा कुविदङ्ग शतं या भेषजानि ते । तेषामसि त्वमुत्तममनास्रावमरोगणम्
नीचैः खनन्त्यसुरा अरुस्राणमिदं महत्। तदास्रावस्य भेषजं तदु रोगमनीनशत्
उपजीका उद्भरन्ति समुद्रादधि भेषजम् । तदास्रावस्य भेषजं तदु रोगमशीशमत्
अरुस्राणमिदं महत्पृथिव्या अध्युद्भृतम् । तदास्रावस्य भेषजं तदु रोगमनीनशत्
शं नो भवन्त्वप ओषधयः शिवाः । इन्द्रस्य वज्रो अप हन्तु रक्षस आराद्विसृष्टा इषवः पतन्तु रक्षसाम्
दीर्घायुत्वाय बृहते रणायारिष्यन्तो दक्षमाणाः सदैव । मणिं विष्कन्धदूषणं जङ्गिडं बिभृमो वयम्
जङ्गिडो जम्भाद्विशराद्विष्कन्धादभिशोचनात्। मणिः सहस्रवीर्यः परि णः पातु विश्वतः
अयं विष्कन्धं सहतेऽयं बाधते अत्त्रिणः । अयं नो विश्वभेषजो जङ्गिडः पात्वंहसः
देवैर्दत्तेन मणिना जङ्गिडेन मयोभुवा । विष्कन्धं सर्वा रक्षांसि व्यायामे सहामहे
शणश्च मा जङ्गिडश्च विष्कन्धादभि रक्षताम् । अरण्यादन्य आभृतः कृष्या अन्यो रसेभ्यः
कृत्यादूषिरयं मणिरथो अरातिदूषिः । अथो सहस्वान् जङ्गिडः प्र ण आयुंषि तारिषत्
इन्द्र जुषस्व प्र वहा याहि शूर हरिभ्याम् । पिबा सुतस्य मतेरिह मधोश्चकानश्चारुर्मदाय
इन्द्र जठरं नव्यो न पृणस्व मधोर्दिवो न । अस्य सुतस्य स्वर्णोप त्वा मदाः सुवाचो अगुः
इन्द्रस्तुराषाण्मित्रो वृत्रं यो जघान यतीर्न । बिभेद वलं भृगुर्न ससहे शत्रून् मदे सोमस्य
आ त्वा विशन्तु सुतास इन्द्र पृणस्व कुक्षी विड्ढि शक्र धियेह्या नः । श्रुधी हवं गिरो मे जुषस्वेन्द्र स्वयुग्भिर्मत्स्वेह महे रणाय
इन्द्रस्य नु प्र वोचं वीर्याणि यानि चकार प्रथमानि वज्री । अहन्न् अहिमनु अपस्ततर्द प्र वक्षणा अभिनत्पर्वतानाम्
अहन्न् अहिं पर्वते शिश्रियाणं त्वष्टास्मै वज्रं स्वर्यं ततक्ष । वाश्रा इव धेनवः स्यन्दमाना अञ्जः समुद्रमव जग्मुरापः
वृषायमाणो अवृणीत सोमं त्रिकद्रुकेषु अपिबत्सुतस्य । आ सायकं मघवादत्त वज्रमहन्न् एनं प्रथमजामहीनाम्
समास्त्वाग्न ऋतवो वर्धयन्तु संवत्सरा ऋषयो यानि सत्या । सं दिव्येन दीदिहि रोचनेन विश्वा आ भाहि प्रदिशश्चतस्रः
सं चेध्यस्वाग्ने प्र च वर्धयेममुच्च तिष्ठ महते सौभगाय । मा ते रिषन्न् उपसत्तारो अग्ने ब्रह्माणस्ते यशसः सन्तु मान्ये
त्वामग्ने वृणते ब्राह्मणा इमे शिवो अग्ने संवरणे भवा नः । सपत्नहाग्ने अभिमातिजिद्भव स्वे गये जागृह्यप्रयुच्छन्
क्षत्रेणाग्ने स्वेन सं रभस्व मित्रेणाग्ने मित्रधा यतस्व । सजातानां मध्यमेष्ठा राज्ञामग्ने विहव्यो दीदिहीह
अति निहो अति सृधोऽत्यचित्तीरति द्विषः । विश्वा ह्यग्ने दुरिता तर त्वमथास्मभ्यं सहवीरं रयिं दाः
अघद्विष्टा देवजाता वीरुच्छपथयोपनी । आपो मलमिव प्राणैक्षीत्सर्वान् मच्छपथामधि
यश्च सापत्नः शपथो जाम्याः शपथश्च यः । ब्रह्मा यन् मन्युतः शपात्सर्वं तन् नो अधस्पदम्
दिवो मूलमवततं पृथिव्या अध्युत्ततम् । तेन सहस्रकाण्डेन परि णः पाहि विश्वतः