यथा मांसं यथा सुरा यथाक्षा अधिदेवने । यथा पुंसो वृषण्यत स्त्रियां निहन्यते मनः । एवा ते अघ्न्ये मनोऽधि वत्से नि हन्यताम्
यथा हस्ती हस्तिन्याः पदेन पदमुद्युजे । यथा पुंसो वृषण्यत स्त्रियां निहन्यते मनः । एवा ते अघ्न्ये मनोऽधि वत्से नि हन्यताम्
यथा प्रधिर्यथोपधिर्यथा नभ्यं प्रधावधि । यथा पुंसो वृषण्यत स्त्रियां निहन्यते मनः । एवा ते अघ्न्ये मनोऽधि वत्से नि हन्यताम्
यदन्नमद्मि बहुधा विरूपं हिरण्यमश्वमुत गामजामविम् । यदेव किं च प्रतिजग्रहाहमग्निष्टद्धोता सुहुतं कृणोतु
यन् मा हुतमहुतमाजगाम दत्तं पितृभिरनुमतं मनुष्यैः । यस्मान् मे मन उदिव रारजीत्यग्निष्टद्धोता सुहुतं कृणोतु
यदन्नमद्म्यनृतेन देवा दास्यन्न् अदास्यन्न् उत संगृणामि । वैश्वानरस्य महतो महिम्ना शिवं मह्यं मधुमदस्त्वन्नम्
यथासितः प्रथयते वशामनु वपूंषि कृण्वन्न् असुरस्य मायया । एवा ते शेपः सहसायमर्कोऽङ्गेनाङ्गं संसमकं कृणोतु
यथा पसस्तायादरं वातेन स्थूलभं कृतम् । यावत्परस्वतः पसस्तावत्ते वर्धतां पसः
यावदङ्गीनं पारस्वतं हास्तिनं गार्दभं च यत्। यावदश्वस्य वाजिनस्तावत्ते वर्धतां पसः
एह यातु वरुणः सोमो अग्निर्बृहस्पतिर्वसुभिरेह यातु । अस्य श्रियमुपसंयात सर्व उग्रस्य चेत्तुः संमनसः सजाताः
यो वः शुष्मो हृदयेष्वन्तराकूतिर्या वो मनसि प्रविष्टा । तान्त्सीवयामि हविषा घृतेन मयि सजाता रमतिर्वो अस्तु
इहैव स्त माप याताध्यस्मत्पूषा परस्तादपथं वः कृणोतु । वास्तोष्पतिरनु वो जोहवीतु मयि सजाता रमतिः वो अस्तु
सं वः पृच्यन्तां तन्वः सं मनांसि समु व्रता । सं वोऽयं ब्रह्मणस्पतिर्भगः सं वो अजीगमत्
संज्ञपनं वो मनसोऽथो संज्ञपनं हृदः । अथो भगस्य यच्छ्रान्तं तेन संज्ञपयामि वः
यथादित्या वसुभिः सम्बभूवुर्मरुद्भिरुग्रा अहृणीयमानाः । एवा त्रिणामन्न् अहृणीयमान इमान् जनान्त्संमनसस्कृधीह
निरमुं नुद ओकसः सपत्नो यः पृतन्यति । नैर्बाध्येन हविषेन्द्र एनं पराशरीत्
परमां तं परावतमिन्द्रो नुदतु वृत्रहा । यतो न पुनरायति शश्वतीभ्यः समाभ्यः
एतु तिस्रः परावत एतु पञ्च जनामति । एतु तिस्रोऽति रोचना यतो न पुनरायति । शश्वतीभ्यः समाभ्यो यावत्सूर्यो असद्दिवि
य एनं परिषीदन्ति समादधति चक्षसे । संप्रेद्धो अग्निर्जिह्वाभिरुदेतु हृदयादधि
अग्नेः साम्तपनस्याहमायुषे पदमा रभे । अद्धातिर्यस्य पश्यति धूममुद्यन्तमास्यतः
यो अस्य समिधं वेद क्षत्रियेण समाहिताम् । नाभिह्वारे पदं नि दधाति स मृत्यवे
नैनं घ्नन्ति पर्यायिणो न सन्नामव गच्छति । अग्नेर्यः क्षत्रियो विद्वान् नाम गृह्नाति आयुषे
अस्थाद्द्यौरस्थात्पृथिव्यस्थाद्विश्वमिदं जगत्। आस्थाने पर्वता अस्थु स्थाम्न्यश्वामतिष्ठिपम्
य उदानत्परायणं य उदानण्न्यायनम् । आवर्तनं निवर्तनं यो गोपा अपि तं हुवे
जातवेदो नि वर्तय शतं ते सन्त्वावृतः । सहस्रं त उपावृतस्ताभिर्नः पुनरा कृधि
तेन भूतेन हविषायमा प्यायतां पुनः । जायां यामस्मा आवाक्षुस्तां रसेनाभि वर्धताम्
अभि वर्धतां पयसाभि राष्ट्रेण वर्धताम् । रय्या सहस्रवर्चसेमौ स्तामनुपक्षितौ
त्वष्टा जायामजनयत्त्वष्टास्यै त्वां पतिम् । त्वष्टा सहस्रमायुंषि दीर्घमायुः कृणोतु वाम्
अयं नो नभसस्पतिः संस्फानो अभि रक्षतु । असमातिं गृहेषु नः
त्वं नो नभसस्पते ऊर्जं गृहेसु धारय । आ पुष्टमेत्वा वसु