अश्रमदियमर्यमन्न् अन्यासां समनं यती । अङ्गो न्वर्यमन्न् अस्या अन्याः समनमायति
धाता दाधार पृथिवीं धाता द्यामुत सूर्यम् । धातास्या अग्रुवै पतिं दधातु प्रतिकाम्यम्
मह्यमापो मधुमदेरयन्तां मह्यं सूरो अभरज्ज्योतिषे कम् । मह्यं देवा उत विश्वे तपोजा मह्यं देवः सविता व्यचो धात्
अहं विवेच पृथिवीमुत द्यामहमृतूंरजनयं सप्त साकम् । अहं सत्यमनृतं यद्वदाम्यहं दैवीं परि वाचं विशश्च
अहं जजान पृथिवीमुत द्यामहमृतूंरजनयं सप्त सिन्धून् । अहं सत्वमनृतं यद्वदामि यो अग्नीषोमावजुषे सखाया
वैश्वानरो रश्मिभिर्नः पुनातु वातः प्राणेनेषिरो नभोभिः । द्यावापृथिवी पयसा पयस्वती ऋतावरी यज्ञिये न पुनीताम्
वैश्वानरीं सूनृतामा रभध्वं यस्या आशास्तन्वो वीतपृष्ठाः । तया गृणन्तः सधमादेषु वयं स्याम पतयो रयीनाम्
वैश्वानरीं वर्चस आ रभध्वं शुद्धा भवन्तः शुचयः पावकाः । इहेडया सधमादं मदन्तो ज्योक्पश्येम सूर्यमुच्चरन्तम्
यत्ते देवी निर्ऋतिराबबन्ध दाम ग्रीवास्वविमोक्यं यत्। तत्ते वि ष्याम्यायुषे वर्चसे बलायादोमदमन्नमद्धि प्रसूतः
नमोऽस्तु ते निर्ऋते तिग्मतेजोऽयस्मयान् वि चृता बन्धपाशान् । यमो मह्यं पुनरित्त्वां ददाति तस्मै यमाय नमो अस्तु मृत्यवे
अयस्मये द्रुपदे बेधिष इहाभिहितो मृत्युभिर्ये सहस्रम् । यमेन त्वं पितृभिः संविदान उत्तमं नाकमधि रोहयेमम्
संसमिद्युवसे वृषन्न् अग्ने विश्वान्यर्य आ । इडस्पदे समिध्यसे स नो वसून्या भर
सं जानीध्वं सं पृच्यध्वं सं वो मनांसि जानताम् । देवा भागं यथा पूर्वे संजानाना उपासते
समानो मन्त्रः समितिः समानी समानं व्रतं सह चित्तमेषाम् । समानेन वो हविषा जुहोमि समानं चेतो अभिसंविशध्वम्
समानी व आकूतिः समाना हृदयानि वः । समानमस्तु वो मनः यथा वः सुसहासति
अव मन्युरवायताव बाहू मनोयुजा । पराशर त्वं तेषां पराञ्चं शुष्ममर्दयाधा नो रयिमा कृधि
निर्हस्तेभ्यो नैर्हस्तं यं देवाः शरुमस्यथ । वृश्चामि शत्रूणां बाहून् अनेन हविषाऽहम्
इन्द्रश्चकार प्रथमं नैर्हस्तमसुरेभ्यः । जयन्तु सत्वानो मम स्थिरेणेन्द्रेण मेदिना
निर्हस्तः शत्रुरभिदासन्न् अस्तु ये सेनाभिर्युधमायन्त्यस्मान् । समर्पयेन्द्र महता वधेन द्रात्वेषामघहारो विविद्धः
आतन्वाना आयच्छन्तोऽस्यन्तो ये च धावथ । निर्हस्ताः शत्रवः स्थनेन्द्रो वोऽद्य पराशरीत्
निर्हस्ताः सन्तु शत्रवोऽङ्गैषां म्लापयामसि । अथैषामिन्द्र वेदांसि शतशो वि भजामहै
परि वर्त्मानि सर्वत इन्द्रः पूषा च सस्रतुः । मुह्यन्त्वद्यामूः सेना अमित्राणां परस्तराम्
मूढा अमित्राश्चरताशीर्षाण इवाहयः । तेषां वो अग्निमूढानामिन्द्रो हन्तु वरंवरम्
ऐषु नह्य वृषाजिनं हरिणस्य भियं कृधि । पराङमित्र एषत्वर्वाची गौरुपेषतु
आयमगन्त्सविता क्षुरेणोष्णेन वाय उदकेनेहि । आदित्या रुद्रा वसव उन्दन्तु सचेतसः सोमस्य राज्ञो वपत प्रचेतसः
अदितिः श्मश्रु वपत्वाप उन्दन्तु वर्चसा । चिकित्सतु प्रजापतिर्दीर्घायुत्वाय चक्षसे
येनावपत्सविता क्षुरेण सोमस्य राज्ञो वरुणस्य विद्वान् । तेन ब्रह्माणो वपतेदमस्य गोमान् अश्ववान् अयमस्तु प्रजावान्
गिरावरगराटेषु हिरन्ये गोषु यद्यशः । सुरायां सिच्यमानायां कीलाले मधु तन् मयि
अश्विना सारघेण मा मधुनाङ्क्तं शुभस्पती । यथा भर्गस्वतीं वाचमावदानि जनामनु
मयि वर्चो अथो यशोऽथो यज्ञस्य यत्पयः । तन् मयि प्रजापतिर्दिवि द्यामिव दृंहतु