पुनः प्राणः पुनरात्मा न ऐतु पुनश्चक्षुः पुनरसुर्न ऐतु । वैश्वानरो नो अदब्धस्तनूपा अन्तस्तिष्ठाति दुरितानि विश्वा
सं वर्चसा पयसा सं तनूभिरगन्महि मनसा सं शिवेन । त्वष्टा नो अत्र वरीयः कृणोत्वनु नो मार्ष्टु तन्वो यद्विरिष्टम्
इदं तद्युज उत्तरमिन्द्रं शुम्भाम्यष्टये । अस्य क्षत्रं श्रियं महीं वृष्टिरिव वर्धया तृणम्
अस्मै क्षत्रमग्नीषोमावस्मै धारयतं रयिम् । इमं राष्ट्रस्याभीवर्गे कृणुतं युज उत्तरम्
सबन्धुश्चासबन्धुश्च यो अस्माँ अभिदासति । सर्वं तं रन्धयासि मे यजमानाय सुन्वते
ये पन्थानो बहवो देवयाना अन्तरा द्यावापृथिवी संचरन्ति । तेषामज्यानिं यतमो वहाति तस्मै मा देवाः परि दत्तेह सर्वे
ग्रीष्मो हेमन्तः शिशिरो वसन्तः शरद्वर्षाः स्विते नो दधात । आ नो गोषु भजता प्रजायां निवात इद्वः शरणे स्याम
इदावत्सराय परिवत्सराय संवत्सराय कृणुता बृहन् नमः । तेषां वयं सुमतौ यज्ञियानामपि भद्रे सौ मनसे स्याम
मा नो देवा अहिर्वधीत्सतोकान्त्सहपूरुषान् । संयतं न वि ष्परद्व्यात्तं न सं यमन् नमो देवजनेभ्यः । नमोऽस्त्वसिताय नमस्तिरश्चिराजये । स्वजाय बभ्रवे नमो नमो देवजनेभ्यः
सं ते हन्मि दता दतः समु ते हन्वा हनू । सं ते जिह्वया जिह्वां सं वास्नाह आस्यम्
इदमिद्वा उ भेषजमिदं रुद्रस्य भेषजम् । येनेषुमेकतेजनां शतशल्यामपब्रवत्
[https://sa.wikisource.org/s/3gjm जालाषभेषजोपरि टिप्पण]ीजालाषेणाभि षिञ्चत जालाषेणोप सिञ्चत । जालाषमुग्रं भेषजं तेन नो मृड जीवसे
शं च नो मयश्च नो मा च नः किं चनाममत्। क्षमा रपो विश्वं नो अस्तु भेषजं सर्वं नो अस्तु भेषजम्
यशसं मेन्द्रो मघवान् कृणोतु यशसं द्यावापृथिवी उभे इमे । यशसं मा देवः सविता कृणोतु प्रियो दातुर्दक्षिणाया इह स्याम्
यथेन्द्रो द्यावापृथिव्योर्यशस्वान् यथाप ओषधीषु यशस्वतीः । एवा विश्वेषु देवेषु वयं सर्वेषु यशसः स्याम
यशा इन्द्रो यशा अग्निर्यशाः सोमो अजायत । यशा विश्वस्य भूतस्याहमस्मि यशस्तमः
अनडुद्भ्यस्त्वं प्रथमं धेनुभ्यस्त्वमरुन्धति । अधेनवे वयसे शर्म यच्छ चतुष्पदे
शर्म यच्छत्वोषधिः सह देवीररुन्धती । करत्पयस्वन्तं गोष्ठमयक्ष्मामुत पूरुषान्
विश्वरूपां सुभगामच्छावदामि जीवलाम् । सा नो रुद्रस्यास्तां हेतिं दूरं नयतु गोभ्यः
अयमा यात्यर्यमा पुरस्ताद्विषितस्तुपः । अस्या इच्छन्न् अग्रुवै पतिमुत जायामजानये
अश्रमदियमर्यमन्न् अन्यासां समनं यती । अङ्गो न्वर्यमन्न् अस्या अन्याः समनमायति
धाता दाधार पृथिवीं धाता द्यामुत सूर्यम् । धातास्या अग्रुवै पतिं दधातु प्रतिकाम्यम्
मह्यमापो मधुमदेरयन्तां मह्यं सूरो अभरज्ज्योतिषे कम् । मह्यं देवा उत विश्वे तपोजा मह्यं देवः सविता व्यचो धात्
अहं विवेच पृथिवीमुत द्यामहमृतूंरजनयं सप्त साकम् । अहं सत्यमनृतं यद्वदाम्यहं दैवीं परि वाचं विशश्च
अहं जजान पृथिवीमुत द्यामहमृतूंरजनयं सप्त सिन्धून् । अहं सत्वमनृतं यद्वदामि यो अग्नीषोमावजुषे सखाया
वैश्वानरो रश्मिभिर्नः पुनातु वातः प्राणेनेषिरो नभोभिः । द्यावापृथिवी पयसा पयस्वती ऋतावरी यज्ञिये न पुनीताम्
वैश्वानरीं सूनृतामा रभध्वं यस्या आशास्तन्वो वीतपृष्ठाः । तया गृणन्तः सधमादेषु वयं स्याम पतयो रयीनाम्
वैश्वानरीं वर्चस आ रभध्वं शुद्धा भवन्तः शुचयः पावकाः । इहेडया सधमादं मदन्तो ज्योक्पश्येम सूर्यमुच्चरन्तम्
यत्ते देवी निर्ऋतिराबबन्ध दाम ग्रीवास्वविमोक्यं यत्। तत्ते वि ष्याम्यायुषे वर्चसे बलायादोमदमन्नमद्धि प्रसूतः
नमोऽस्तु ते निर्ऋते तिग्मतेजोऽयस्मयान् वि चृता बन्धपाशान् । यमो मह्यं पुनरित्त्वां ददाति तस्मै यमाय नमो अस्तु मृत्यवे