अयं यो भूरिमूलः समुद्रमवतिष्ठति । दर्भः पृथिव्या उत्थितो मन्युशमन उच्यते
वि ते हनव्यां शरणिं वि ते मुख्यां नयामसि । यथावशो न वादिषो मम चित्तमुपायसि
अस्थाद्द्यौरस्थात्पृथिव्यस्थाद्विश्वमिदं जगत्। अस्थुर्वृक्षा ऊर्ध्वस्वप्नास्तिष्ठाद्रोगो अयं तव
शतं या भेषजानि ते सहस्रं संगतानि च । श्रेष्ठमास्रावभेषजं वसिष्ठं रोगनाशनम्
रुद्रस्य मूत्रमस्यमृतस्य नाभिः । विषाणका नाम वा असि पितॄणां मूलादुत्थिता वातीकृतनाशनी
परोऽपेहि मनस्पाप किमशस्तानि शंससि । परेहि न त्वा कामये वृक्षां वनानि सं चर गृहेषु गोषु मे मनः
अवशसा निःशसा यत्पराशसोपारिम जाग्रतो यत्स्वपन्तः । अग्निर्विश्वान्यप दुष्कृतान्यजुष्टान्यारे अस्मद्दधातु
यदिन्द्र ब्रह्मणस्पतेऽपि मृषा चरामसि । प्रचेता न आङ्गिरसो दुरितात्पात्वंहसः
यो न जीवोऽसि न मृतो देवानाममृतगर्भोऽसि स्वप्न । वरुणानी ते माता यमः पिताररुर्नामासि
विद्म ते स्वप्न जनित्रं देवजामीनां पुत्रोऽसि यमस्य करणः । अन्तकोऽसि मृत्युरसि तं त्वा स्वप्न तथा सं विद्म स नः स्वप्न दुष्वप्न्यात्पाहि
यथा कलां यथा शफं यथर्णं संनयन्ति । एवा दुष्वप्न्यं सर्वं द्विषते सं नयामसि
अग्निः प्रातःसवने पात्वस्मान् वैश्वानरो विश्वकृद्विश्वशंभूः । स नः पावको द्रविणे दधात्वायुष्मन्तः सहभक्षाः स्याम
विश्वे देवा मरुत इन्द्रो अस्मान् अस्मिन् द्वितीये सवने न जह्युः । आयुष्मन्तः प्रियमेषां वदन्तो वयं देवानां सुमतौ स्याम
इदं तृतीयं सवनं कवीनामृतेन ये चमसमैरयन्त । ते सौधन्वनाः स्वरानशानाः स्विष्टिं नो अभि वस्यो नयन्तु
श्येनोऽसि गायत्रच्छन्दा अनु त्वा रभे । स्वस्ति मा सं वहास्य यज्ञस्योदृचि स्वाहा
ऋभुरसि जगच्छन्दा अनु त्वा रभे । स्वस्ति मा सं वहास्य यज्ञस्योदृचि स्वाहा
वृषासि त्रिष्टुप्छन्दा अनु त्वा रभे । स्वस्ति मा सं वहास्य यज्ञस्योदृचि स्वाहा
नहि ते अग्ने तन्वः क्रूरमानंश मर्त्यः । कपिर्बभस्ति तेजनं स्वं जरायु गौरिव
मेष इव वै सं च वि चोर्वच्यसे यदुत्तरद्रावुपरश्च खादतः । शीर्ष्णा शिरोऽप्ससाप्सो अर्दयन्न् अंशून् बभस्ति हरितेभिरासभिः
सुपर्णा वाचमक्रतोप द्यव्याखरे कृष्णा इषिरा अनर्तिषुः । नि यन् नियन्ति उपरस्य निष्कृतिं पुरू रेतो दधिरे सूर्यश्रितः
हतं तर्दं समङ्कमाखुमश्विना छिन्तं शिरो अपि पृष्टीः शृणीतम् । यवान् नेददान् अपि नह्यतं मुखमथाभयं कृणुतं धान्याय
तर्द है पतङ्ग है जभ्य हा उपक्वस । ब्रह्मेवासंस्थितं हविरनदन्त इमान् यवान् अहिंसन्तो अपोदित
तर्दापते वघापते तृष्टजम्भा आ शृणोत मे । य आरण्या व्यद्वरा ये के च स्थ व्यद्वरास्तान्त्सर्वान् जम्भयामसि
वायोः पूतः पवित्रेण प्रत्यङ्सोमो अति द्रुतः । इन्द्रस्य युजः सखा
आपो अस्मान् मातरः सूदयन्तु घृतेन नो घृतप्वः पुनन्तु । विश्वं हि रिप्रं प्रवहन्ति देवीरुदिदाभ्यः शुचिरा पूत एमि
यत्किं चेदं वरुण दैव्ये जनेऽभिद्रोहं मनुष्याश्चरन्ति । अचित्त्या चेत्तव धर्म युयोपिम मा नस्तस्मादेनसो देव रीरिषः
उत्सूर्यो दिव एति पुरो रक्षांसि निजूर्वन् । आदित्यः पर्वतेभ्यो विश्वदृष्टो अदृष्टहा
नि गावो गोष्ठे असदन् नि मृगासो अविक्षत । न्यूर्मयो नदीनां न्यदृष्टा अलिप्सत
आयुर्ददं विपश्चितं श्रुतां कण्वस्य वीरुधम् । आभारिषं विश्वभेषजीमस्यादृष्टान् नि शमयत्
द्यौश्च म इदं पृथिवी च प्रचेतसौ शुक्रो बृहन् दक्षिणया पिपर्तु । अनु स्वधा चिकितां सोमो अग्निर्वायुर्नः पातु सविता भगश्च