यो रक्षांसि निजूर्वत्यग्निस्तिग्मेन शोचिषा । स नः पर्षदति द्विषः
यः परस्याः परावतस्तिरो धन्वातिरोचते । स नः पर्षदति द्विषः
यो विश्वाभि विपश्यति भुवना सं च पश्यति । स नः पर्षदति द्विषः
यो अस्य पारे रजसः शुक्रो अग्निरजायत । स नः पर्षदति द्विषः
वैश्वानरो न ऊतय आ प्र यातु परावतः । अग्निर्नः सुष्टुतीरुप
वैश्वानरो न आगमदिमं यज्ञं सजूरुप । अग्निरुक्थेष्वंहसु
वैश्वानरोऽङ्गिरसां स्तोममुक्थं च चाकॢपत्। ऐषु द्युम्नं स्वर्यमत्
ऋतावानं वैश्वानरमृतस्य ज्योतिषस्पतिम् । अजस्रं घर्ममीमहे
स विश्वा प्रति चाकॢप ऋतूंरुत्सृजते वशी । यज्ञस्य वय उत्तिरन्
अग्निः परेषु धामसु कामो भूतस्य भव्यस्य । सम्रादेको वि राजति
उप प्रागात्सहस्राक्षो युक्त्वा शपथो रथम् । शप्तारमन्विच्छन् मम वृक इवाविमतो गृहम्
परि णो वृङ्ग्धि शपथ ह्रदमग्निरिवा दहन् । शप्तारमत्र नो जहि दिवो वृक्षमिवाशनिः
यो नः शपादशपतः शपतो यश्च नः शपात्। शुने पेष्ट्रमिवावक्षामं तं प्रत्यस्यामि मृत्यवे
सिंहे व्याघ्र उत या पृदाकौ त्विषिरग्नौ ब्राह्मणे सूर्ये या । इन्द्रं या देवी सुभगा जजान सा न ऐतु वर्चसा संविदाना
या हस्तिनि द्वीपिनि या हिरण्ये त्विषिरप्सु गोषु या पुरुषेषु । इन्द्रं या देवी सुभगा जजान सा न ऐतु वर्चसा संविदाना
रथे अक्षेष्वृषभस्य वाजे वाते पर्जन्ये वरुणस्य शुष्मे । इन्द्रं या देवी सुभगा जजान सा न ऐतु वर्चसा संविदाना
राजन्ये दुन्दुभावायतायामश्वस्य वाजे पुरुषस्य मायौ । इन्द्रं या देवी सुभगा जजान सा न ऐतु वर्चसा संविदाना
यशो हविर्वर्धतामिन्द्रजूतं सहस्रवीर्यं सुभृतं सहस्कृतम् । प्रसर्स्राणमनु दीर्घाय चक्षसे हविष्मन्तं मा वर्धय ज्येष्ठतातये
अछा न इन्द्रं यशसं यशोभिर्यशस्विनं नमसाना विधेम । स नो रास्व राष्ट्रमिन्द्रजूतं तस्य ते रातौ यशसः स्याम
यशा इन्द्रो यशा अग्निर्यशाः सोमो अजायत । यशा विश्वस्य भूतस्य अहमस्मि यशस्तमः
अभयं द्यावापृथिवी इहास्तु नोऽभयं सोमः सविता नः कृणोतु । अभयं नोऽस्तूर्वन्तरिक्षं सप्तऋषीणां च हविषाभयं नो अस्तु
अस्मै ग्रामाय प्रदिशश्चतस्र ऊर्जं सुभूतं स्वस्ति सविता नः कृणोतु । अशत्र्विन्द्रो अभयं नः कृणोत्वन्यत्र राज्ञामभि यातु मन्युः
अनमित्रं नो अधरादनमित्रं न उत्तरात्। इन्द्रानमित्रं नः पश्चादनमित्रं पुरस्कृधि
6.41 मनसे चेतसे धिय आकूतय उत चित्तये । मत्यै श्रुताय चक्षसे विधेम हविषा वयम्
अपानाय व्यानाय प्राणाय भूरिधायसे । सरस्वत्या उरुव्यचे विधेम हविषा वयम्
मा नो हासिषुर्ऋषयो दैव्या ये तनूपा ये नस्तन्वस्तनूजाः । अमर्त्या मर्त्यामभि नः सचध्वमायुर्धत्त प्रतरं जीवसे नः
6.42 अव ज्यामिव धन्वनो मन्युं तनोमि ते हृदः । यथा संमनसौ भूत्वा सखायाविव सचावहै
सखायाविव सचावहा अव मन्युं तनोमि ते । अधस्ते अश्मनो मन्युमुपास्यामसि यो गुरुः
अभि तिष्ठामि ते मन्युं पार्ष्ण्या प्रपदेन च । यथावशो न वादिषो मम चित्तमुपायसि
6.43 अयं दर्भो विमन्युकः स्वाय चारणाय च । मन्योर्विमन्युकस्यायं मन्युशमन उच्यते