आयं गौः पृश्निरक्रमीदसदन् मातरं पुरः । पितरं च प्रयन्त्स्वः
अन्तश्चरति रोचना अस्य प्राणादपानतः । व्यख्यन् महिषः स्वः
त्रिंशद्धामा वि राजति वाक्पतङ्गो अशिश्रियत्। प्रति वस्तोरहर्द्युभिः
अन्तर्दावे जुहुत स्वेतद्यातुधानक्षयणं घृतेन । आराद्रक्षांसि प्रति दह त्वमग्ने न नो गृहाणामुप तीतपासि
रुद्रो वो ग्रीवा अशरैत्पिशाचाः पृष्टीर्वोऽपि शृणातु यातुधानाः । वीरुद्वो विश्वतोवीर्या यमेन समजीगमत्
अभयं मित्रावरुणाविहास्तु नोऽर्चिषात्त्रिणो नुदतं प्रतीचः । मा ज्ञातारं मा प्रतिष्ठां विदन्त मिथो विघ्नाना उप यन्तु मृत्युम्
यस्येदमा रजो युजस्तुजे जना नवं स्वः । इन्द्रस्य रन्त्यं बृहत्
नाधृष आ दधृषते धृषाणो धृषितः शवः । पुरा यथा व्यथिः श्रव इन्द्रस्य नाधृषे शवः
स नो ददातु तां रयिमुरुं पिशङ्गसंदृशम् । इन्द्रः पतिस्तुविष्टमो जनेष्वा
प्राग्नये वाचमीरय वृषभाय क्षितीनाम् । स नः पर्षदति द्विषः
यो रक्षांसि निजूर्वत्यग्निस्तिग्मेन शोचिषा । स नः पर्षदति द्विषः
यः परस्याः परावतस्तिरो धन्वातिरोचते । स नः पर्षदति द्विषः
यो विश्वाभि विपश्यति भुवना सं च पश्यति । स नः पर्षदति द्विषः
यो अस्य पारे रजसः शुक्रो अग्निरजायत । स नः पर्षदति द्विषः
वैश्वानरो न ऊतय आ प्र यातु परावतः । अग्निर्नः सुष्टुतीरुप
वैश्वानरो न आगमदिमं यज्ञं सजूरुप । अग्निरुक्थेष्वंहसु
वैश्वानरोऽङ्गिरसां स्तोममुक्थं च चाकॢपत्। ऐषु द्युम्नं स्वर्यमत्
ऋतावानं वैश्वानरमृतस्य ज्योतिषस्पतिम् । अजस्रं घर्ममीमहे
स विश्वा प्रति चाकॢप ऋतूंरुत्सृजते वशी । यज्ञस्य वय उत्तिरन्
अग्निः परेषु धामसु कामो भूतस्य भव्यस्य । सम्रादेको वि राजति
उप प्रागात्सहस्राक्षो युक्त्वा शपथो रथम् । शप्तारमन्विच्छन् मम वृक इवाविमतो गृहम्
परि णो वृङ्ग्धि शपथ ह्रदमग्निरिवा दहन् । शप्तारमत्र नो जहि दिवो वृक्षमिवाशनिः
यो नः शपादशपतः शपतो यश्च नः शपात्। शुने पेष्ट्रमिवावक्षामं तं प्रत्यस्यामि मृत्यवे
सिंहे व्याघ्र उत या पृदाकौ त्विषिरग्नौ ब्राह्मणे सूर्ये या । इन्द्रं या देवी सुभगा जजान सा न ऐतु वर्चसा संविदाना
या हस्तिनि द्वीपिनि या हिरण्ये त्विषिरप्सु गोषु या पुरुषेषु । इन्द्रं या देवी सुभगा जजान सा न ऐतु वर्चसा संविदाना
रथे अक्षेष्वृषभस्य वाजे वाते पर्जन्ये वरुणस्य शुष्मे । इन्द्रं या देवी सुभगा जजान सा न ऐतु वर्चसा संविदाना
राजन्ये दुन्दुभावायतायामश्वस्य वाजे पुरुषस्य मायौ । इन्द्रं या देवी सुभगा जजान सा न ऐतु वर्चसा संविदाना
यशो हविर्वर्धतामिन्द्रजूतं सहस्रवीर्यं सुभृतं सहस्कृतम् । प्रसर्स्राणमनु दीर्घाय चक्षसे हविष्मन्तं मा वर्धय ज्येष्ठतातये
अछा न इन्द्रं यशसं यशोभिर्यशस्विनं नमसाना विधेम । स नो रास्व राष्ट्रमिन्द्रजूतं तस्य ते रातौ यशसः स्याम
यशा इन्द्रो यशा अग्निर्यशाः सोमो अजायत । यशा विश्वस्य भूतस्य अहमस्मि यशस्तमः