यन् मे अक्ष्योरादिद्योत पार्ष्ण्योः प्रपदोश्च यत्। आपस्तत्सर्वं निष्करन् भिषजां सुभिषक्तमाः
सिन्धुपत्नीः सिन्धुराज्ञीः सर्वा या नद्य स्थन । दत्त नस्तस्य भेषजं तेना वो भुनजामहै
पञ्च च याः पञ्चाशच्च संयन्ति मन्या अभि । इतस्ताः सर्वा नश्यन्तु वाका अपचितामिव
सप्त च याः सप्ततिश्च संयन्ति ग्रैव्या अभि । इतस्ताः सर्वा नश्यन्तु वाका अपचितामिव
नव च या नवतिश्च संयन्ति स्कन्ध्या अभि । इतस्ताः सर्वा नश्यन्तु वाका अपचितामिव
अव मा पाप्मन्त्सृज वशी सन् मृदयासि नः । आ मा भद्रस्य लोके पाप्मन् धेह्यविह्रुतम्
यो नः पाप्मन् न जहासि तमु त्वा जहिमो वयम् । पथामनु व्यावर्तनेऽन्यं पाप्मानु पद्यताम्
अन्यत्रास्मन् न्युच्यतु सहस्राक्षो अमर्त्यः । यं द्वेषाम तमृच्छतु यमु द्विष्मस्तमिज्जहि
देवाः कपोत इषितो यदिच्छन् दूतो निर्ऋत्या इदमाजगाम । तस्मा अर्चाम कृणवाम निष्कृतिं शं नो अस्तु द्विपदे शं चतुष्पदे
शिवः कपोत इषितो नो अस्त्वनागा देवाः शकुनो गृहं नः । अग्निर्हि विप्रो जुषतां हविर्नः परि हेतिः पक्षिणी नो वृणक्तु
हेतिः पक्षिणी न दभात्यस्मान् आष्ट्री पदं कृणुते अग्निधाने । शिवो गोभ्य उत पुरुषेभ्यो नो अस्तु मा नो देवा इह हिंसीत्कपोत
ऋचा कपोतं नुदत प्रणोदमिषं मदन्तः परि गां नयामः । संलोभयन्तो दुरिता पदानि हित्वा न ऊर्जं प्र पदात्पथिष्ठः
परीमेऽग्निमर्षत परीमे गामनेषत । देवेष्वक्रत श्रवः क इमामा दधर्षति
यः प्रथमः प्रवतमाससाद बहुभ्यः पन्थामनुपस्पशानः । योऽस्येशे द्विपदो यश्चतुष्पदस्तस्मै यमाय नमो अस्तु मृत्यवे
अमून् हेतिः पतत्रिणी न्येतु यदुलूको वदति मोघमेतत्। यद्वा कपोत पदमग्नौ कृणोति
यौ ते दूतौ निर्ऋत इदमेतोऽप्रहितौ प्रहितौ वा गृहं नः । कपोतोलूकाभ्यामपदं तदस्तु
अवैरहत्यायेदमा पपत्यात्सुवीरताया इदमा ससद्यात्। पराङेव परा वद पराचीमनु संवतम् । यथा यमस्य त्वा गृहेऽरसं प्रतिचाकशान् आभूकं प्रतिचाकशान्
देवा इमं मधुना संयुतं यवं सरस्वत्यामधि मणावचर्कृषुः । इन्द्र आसीत्सीरपतिः शतक्रतुः कीनाशा आसन् मरुतः सुदानवः
यस्ते मदोऽवकेशो विकेशो येनाभिहस्यं पुरुषं कृणोषि । आरात्त्वदन्या वनानि वृक्षि त्वं शमि शतवल्शा वि रोह
बृहत्पलाशे सुभगे वर्षवृद्ध ऋतावरि । मातेव पुत्रेभ्यो मृड केशेभ्यः शमि
आयं गौः पृश्निरक्रमीदसदन् मातरं पुरः । पितरं च प्रयन्त्स्वः
अन्तश्चरति रोचना अस्य प्राणादपानतः । व्यख्यन् महिषः स्वः
त्रिंशद्धामा वि राजति वाक्पतङ्गो अशिश्रियत्। प्रति वस्तोरहर्द्युभिः
अन्तर्दावे जुहुत स्वेतद्यातुधानक्षयणं घृतेन । आराद्रक्षांसि प्रति दह त्वमग्ने न नो गृहाणामुप तीतपासि
रुद्रो वो ग्रीवा अशरैत्पिशाचाः पृष्टीर्वोऽपि शृणातु यातुधानाः । वीरुद्वो विश्वतोवीर्या यमेन समजीगमत्
अभयं मित्रावरुणाविहास्तु नोऽर्चिषात्त्रिणो नुदतं प्रतीचः । मा ज्ञातारं मा प्रतिष्ठां विदन्त मिथो विघ्नाना उप यन्तु मृत्युम्
यस्येदमा रजो युजस्तुजे जना नवं स्वः । इन्द्रस्य रन्त्यं बृहत्
नाधृष आ दधृषते धृषाणो धृषितः शवः । पुरा यथा व्यथिः श्रव इन्द्रस्य नाधृषे शवः
स नो ददातु तां रयिमुरुं पिशङ्गसंदृशम् । इन्द्रः पतिस्तुविष्टमो जनेष्वा
प्राग्नये वाचमीरय वृषभाय क्षितीनाम् । स नः पर्षदति द्विषः