यथेयं पृथिवी मही दाधार विष्ठितं जगत्। एवा ते ध्रियतां गर्भो अनु सूतुं सवितवे
ईर्ष्याया ध्राजिं प्रथमां प्रथमस्या उतापराम् । अग्निं हृदय्यं शोकं तं ते निर्वापयामसि
यथा भूमिर्मृतमना मृतान् मृतमनस्तरा । यथोत मम्रुषो मन एवेर्ष्योर्मृतं मनः
अदो यत्ते हृदि श्रितं मनस्कं पतयिष्णुकम् । ततस्त ईर्ष्यां मुञ्चामि निरूष्माणं दृतेरिव
पुनन्तु मा देवजनाः पुनन्तु मनवो धिया । पुनन्तु विश्वा भूतानि पवमानः पुनातु मा
पवमानः पुनातु मा क्रत्वे दक्षाय जीवसे । अथो अरिष्टतातये
उभाभ्यां देव सवितः पवित्रेण सवेन च । अस्मान् पुनीहि चक्षसे
अग्नेरिवास्य दहत एति शुष्मिण उतेव मत्तो विलपन्न् अपायति । अन्यमस्मदिच्छतु कं चिदव्रतस्तपुर्वधाय नमो अस्तु तक्मने
नमो रुद्राय नमो अस्तु तक्मने नमो राज्ञे वरुणाय त्विषीमते । नमो दिवे नमः पृथिव्यै नम ओषधीभ्यः
अयं यो अभिशोचयिष्णुर्विश्वा रूपाणि हरिता कृणोषि । तस्मै तेऽरुणाय बभ्रवे नमः कृणोमि वन्याय तक्मने
इमा यास्तिस्रः पृथिवीस्तासां ह भूमिरुत्तमा । तासामधि त्वचो अहं भेषजं समु जग्रभम्
श्रेष्ठमसि भेषजानां वसिष्ठं वीरुधानाम् । सोमो भग इव यामेषु देवेषु वरुणो यथा
रेवतीरनाधृषः सिषासवः सिषासथ । उत स्थ केशदृंहणीरथो ह केशवर्धनीः
कृष्णं नियानं हरयः सुपर्णा अपो वसाना दिवमुत्पतन्ति । त आववृत्रन्त्सदनादृतस्यादिद्घृतेन पृथिवीं व्यूदुः
पयस्वतीः कृणुथाप ओषधीः शिवा यदेजथा मरुतो रुक्मवक्षसः । ऊर्जं च तत्र सुमतिं च पिन्वत यत्रा नरो मरुतः सिञ्चथा मधु
उदप्रुतो मरुतस्तामियर्त वृष्टिर्या विश्वा निवतस्पृणाति । एजाति ग्लहा कन्येव तुन्नैरुं तुन्दाना पत्येव जाया
सस्रुषीस्तदपसो दिवा नक्तं च सस्रुषीः । वरेण्यक्रतुरहमपो देवीरुप ह्वये
ओता आपः कर्मण्या मुञ्चन्त्वितः प्रणीतये । सद्यः कृण्वन्त्वेतवे
देवस्य सवितुः सवे कर्म कृण्वन्तु मानुषाः । शं नो भवन्त्वप ओषधीः शिवाः
हिमवतः प्र स्रवन्ति सिन्धौ समह सङ्गमः । आपो ह मह्यं तद्देवीर्ददन् हृद्द्योतभेषजम्
यन् मे अक्ष्योरादिद्योत पार्ष्ण्योः प्रपदोश्च यत्। आपस्तत्सर्वं निष्करन् भिषजां सुभिषक्तमाः
सिन्धुपत्नीः सिन्धुराज्ञीः सर्वा या नद्य स्थन । दत्त नस्तस्य भेषजं तेना वो भुनजामहै
पञ्च च याः पञ्चाशच्च संयन्ति मन्या अभि । इतस्ताः सर्वा नश्यन्तु वाका अपचितामिव
सप्त च याः सप्ततिश्च संयन्ति ग्रैव्या अभि । इतस्ताः सर्वा नश्यन्तु वाका अपचितामिव
नव च या नवतिश्च संयन्ति स्कन्ध्या अभि । इतस्ताः सर्वा नश्यन्तु वाका अपचितामिव
अव मा पाप्मन्त्सृज वशी सन् मृदयासि नः । आ मा भद्रस्य लोके पाप्मन् धेह्यविह्रुतम्
यो नः पाप्मन् न जहासि तमु त्वा जहिमो वयम् । पथामनु व्यावर्तनेऽन्यं पाप्मानु पद्यताम्
अन्यत्रास्मन् न्युच्यतु सहस्राक्षो अमर्त्यः । यं द्वेषाम तमृच्छतु यमु द्विष्मस्तमिज्जहि
देवाः कपोत इषितो यदिच्छन् दूतो निर्ऋत्या इदमाजगाम । तस्मा अर्चाम कृणवाम निष्कृतिं शं नो अस्तु द्विपदे शं चतुष्पदे
शिवः कपोत इषितो नो अस्त्वनागा देवाः शकुनो गृहं नः । अग्निर्हि विप्रो जुषतां हविर्नः परि हेतिः पक्षिणी नो वृणक्तु