यथा सुपर्णः प्रपतन् पक्षौ निहन्ति भूम्याम् । एवा नि हन्मि ते मनो यथा मां कामिन्यसो यथा मन् नापगा असः
यथेमे द्यावापृथिवी सद्यः पर्येति सूर्यः । एवा पर्येमि ते मनो यथा मां कामिन्यसो यथा मन् नापगा असः
वाञ्छ मे तन्वं पादौ वाञ्छाक्ष्यौ वाञ्छ सक्थ्यौ । अक्ष्यौ वृषण्यन्त्याः केशा मां ते कामेन शुष्यन्तु
मम त्वा दोषणिश्रिषं कृणोमि हृदयश्रिषम् । यथा मम क्रतावसो मम चित्तमुपायसि
यासां नाभिरारेहणं हृदि संवननं कृतम्। गावो घृतस्य मातरोऽमूं सं वानयन्तु मे
पृथिव्यै श्रोत्राय वनस्पतिभ्योऽग्नयेऽधिपतये स्वाहा
प्राणायान्तरिक्षाय वयोभ्यो वायवेऽधिपतये स्वाहा
दिवे चक्षुषे नक्षत्रेभ्यः सूर्यायाधिपतये स्वाहा
शमीमश्वत्थ आरूढस्तत्र पुंसुवनं कृतम् । तद्वै पुत्रस्य वेदनं तत्स्त्रीष्वा भरामसि
पुंसि वै रेतो भवति तत्स्त्रियामनु षिच्यते । तद्वै पुत्रस्य वेदनं तत्प्रजापतिरब्रवीत्
प्रजापतिरनुमतिः सिनीवाल्यचीकॢपत्। स्त्रैषूयमन्यत्र दधत्पुमांसमु दधदिह
परि द्यामिव सूर्योऽहीनां जनिमागमम् । रात्री जगदिवान्यद्धंसात्तेना ते वारये विषम्
यद्ब्रह्मभिर्यदृषिभिर्यद्देवैर्विदितं पुरा । यद्भूतं भव्यमासन्वत्तेना ते वारये विषम्
मध्वा पृञ्चे नद्यः पर्वता गिरयो मधु । मधु परुष्णी शीपाला शमास्ने अस्तु शं हृदे
नमो देववधेभ्यो नमो राजवधेभ्यः । अथो ये विश्यानां वधास्तेभ्यो मृत्यो नमोऽस्तु ते
नमस्ते अधिवाकाय परावाकाय ते नमः । सुमत्यै मृत्यो ते नमो दुर्मत्यै ते इदं नमः
नमस्ते यातुधानेभ्यो नमस्ते भेषजेभ्यः । नमस्ते मृत्यो मूलेभ्यो ब्राह्मणेभ्य इदं नमः
अस्थिस्रंसं परुस्रंसमास्थितं हृदयामयम् । बलासं सर्वं नाशयाङ्गेष्ठा यश्च पर्वसु
निर्बलासं बलासिनः क्षिणोमि मुष्करं यथा । छिनद्म्यस्य बन्धनं मूलमुर्वार्वा इव
निर्बलासेतः प्र पताशुङ्गः शिशुको यथा । अथो इत इव हायनोऽप द्राह्यवीरहा
उत्तमो अस्योषधीनां तव वृक्षा उपस्तयः । उपस्तिरस्तु सोऽस्माकं यो अस्मामभिदासति
सबन्धुश्चासबन्धुश्च यो अस्मामभिदासति । तेषां सा वृक्षाणामिवाहं भूयासमुत्तमः
यथा सोम ओषधीनामुत्तमो हविषां कृतः । तलाशा वृक्षाणामिवाहं भूयासमुत्तमः
आबयो अनाबयो रसस्त उग्र आबयो । आ ते करम्भमद्मसि
विहह्लो नाम ते पिता मदावती नाम ते माता । स हिन त्वमसि यस्त्वमात्मानमावयः
तौविलिकेऽवेलयावायमैलब ऐलयीत्। बभ्रुश्च बभ्रुकर्णश्चापेहि निराल
अलसालासि पूर्व सिलाञ्जालास्युत्तरा । नीलागलसाल
यथेयं पृथिवी मही भूतानां गर्भमादधे । एवा ते ध्रियतां गर्भो अनु सूतुं सवितवे
यथेयं पृथिवी मही दाधारेमान् वनस्पतीन् । एवा ते ध्रियतां गर्भो अनु सूतुं सवितवे
यथेयं पृथिवी मही दाधार पर्वतान् गिरीन् । एवा ते ध्रियतां गर्भो अनु सूतुं सवितवे