पुरं देवानाममृतं हिरण्यं य आबेधे प्रथमो देवो अग्रे । तस्मै नमो दश प्राचीः कृणोम्यनु मन्यतां त्रिवृदाबधे मे
आ त्वा चृतत्वर्यमा पूषा बृहस्पतिः । अहर्जातस्य यन् नाम तेन त्वाति चृतामसि
ऋतुभिष्ट्वार्तवैरायुषे वर्चसे त्वा । संवत्सरस्य तेजसा तेन संहनु कृण्मसि
घृतादुल्लुप्तं मधुना समक्तं भूमिदृंहमच्युतं पारयिष्णु । भिन्दत्सपत्नान् अधरांश्च कृण्वदा मा रोह महते सौभगाय
पुरस्ताद्युक्तो वह जातवेदोऽग्ने विद्धि क्रियमाणं यथेदम् । त्वं भिषग्भेषजस्यासि कर्ता त्वया गामश्वं पुरुषं सनेम
तथा तदग्ने कृणु जातवेदो विश्वेभिर्देवैः सह संविदानः । यो नो दिदेव यतमो जघास यथा सो अस्य परिधिष्पताति
यथा सो अस्य परिधिष्पताति तथा तदग्ने कृणु जातवेदः । विश्वेभिर्देवैर्सह संविदानः
अक्ष्यौ नि विध्य हृदयं नि विध्य जिह्वां नि तृन्द्धि प्र दतो मृणीहि । पिशाचो अस्य यतमो जघासाग्ने यविष्ठ प्रति तं शृणीहि
यदस्य हृतं विहृतं यत्पराभृतमात्मनो जग्धं यतमत्पिशाचैः । तदग्ने विद्वान् पुनरा भर त्वं शरीरे मांसमसुमेरयामः
आमे सुपक्वे शबले विपक्वे यो मा पिशाचो अशने ददम्भ । तदात्मना प्रजया पिशाचा वि यातयन्तामगदोऽयमस्तु
क्षीरे मा मन्थे यतमो ददम्भाकृष्टपच्ये अशने धान्ये यः । तदात्मना प्रजया पिशाचा वि यातयन्तामगदोऽयमस्तु
अपां मा पाने यतमो ददम्भ क्रव्याद्यातूनां शयने शयानम् । तदात्मना प्रजया पिशाचा वि यातयन्तामगदोऽयमस्तु
दिवा मा नक्तं यतमो ददम्भ क्रव्याद्यातूनां शयने शयानम् । तदात्मना प्रजया पिशाचा वि यातयन्तामगदोऽयमस्तु
क्रव्यादमग्ने रुधिरं पिशाचं मनोहनं जहि जातवेदः । तमिन्द्रो वाजी वज्रेण हन्तु छिनत्तु सोमः शिरो अस्य धृष्णुः
सनादग्ने मृणसि यातुधानान् न त्वा रक्षांसि पृतनासु जिग्युः । सहमूरान् अनु दह क्रव्यादो मा ते हेत्या मुक्षत दैव्यायाः
समाहर जातवेदो यद्धृतं यत्पराभृतम् । गात्राण्यस्य वर्धन्तामंशुरिवा प्यायतामयम्
सोमस्येव जातवेदो अंशुरा प्यायतामयम् । अग्ने विरप्शिनं मेध्यमयक्ष्मं कृणु जीवतु
एतास्ते अग्ने समिधः पिशाचजम्भनीः । तास्त्वं जुषस्व प्रति चैना गृहाण जातवेदः
तार्ष्टाघीरग्ने समिधः प्रति गृह्णाह्यर्चिषा । जहातु क्रव्याद्रूपं यो अस्य मांसं जिहीर्षति
आवतस्त आवतः परावतस्त आवतः । इहैव भव मा नु गा मा पूर्वान् अनु गाः पितॄन् असुं बध्नामि ते दृढम्
यत्त्वाभिचेरुः पुरुषः स्वो यदरणो जनः । उन्मोचनप्रमोचने उभे वाचा वदामि ते
यद्दुद्रोहिथ शेपिषे स्त्रियै पुंसे अचित्त्या । उन्मोचनप्रमोचने उभे वाचा वदामि ते
यतेनसो मातृकृताच्छेषे पितृकृताच्च यत्। उन्मोचनप्रमोचने उभे वाचा वदामि ते
यत्ते माता यत्ते पिता जमिर्भ्राता च सर्जतः । प्रत्यक्सेवस्व भेषजं जरदष्टिं कृणोमि त्वा
इहैधि पुरुष सर्वेण मनसा सह । दूतौ यमस्य मानु गा अधि जीवपुरा इहि
अनुहूतः पुनरेहि विद्वान् उदयनं पथः । आरोहणमाक्रमणं जीवतोजीवतोऽयनम्
मा बिभेर्न मरिष्यसि जरदष्टिं कृणोमि त्वा । निरवोचमहं यक्ष्ममङ्गेभ्यो अङ्गज्वरं तव
अङ्गभेदो अङ्गज्वरो यश्च ते हृदयामयः । यक्ष्मः श्येन इव प्रापप्तद्वचा साढः परस्तराम्
ऋषी बोधप्रतीबोधावस्वप्नो यश्च जागृविः । तौ ते प्राणस्य गोप्तारौ दिवा नक्तं च जागृताम्
अयमग्निरुपसद्य इह सूर्य उदेतु ते । उदेहि मृत्योर्गम्भीरात्कृष्णाच्चित्तमसस्परि