यथा मृगाः संविजन्त आरण्याः पुरुषादधि । एव त्वं दुन्दुभेऽमित्रान् अभि क्रन्द प्र त्रासयाथो चित्तानि मोहय
यथा वृकादजावयो धावन्ति बहु बिभ्यतीः । एव त्वं दुन्दुभेऽमित्रान् अभि क्रन्द प्र त्रासयाथो चित्तानि मोहय
यथा श्येनात्पतत्रिणः संविजन्ते अहर्दिवि सिंहस्य स्तनथोर्यथा । एव त्वं दुन्दुभेऽमित्रान् अभि क्रन्द प्र त्रासयाथो चित्तानि मोहय
परामित्रान् दुन्दुभिना हरिणस्याजिनेन च । सर्वे देवा अतित्रसन् ये संग्रामस्येषते
यैरिन्द्रः प्रक्रीडते पद्घोषैश्छायया सह । तैरमित्रास्त्रसन्तु नोऽमी ये यन्त्यनीकशः
ज्याघोषा दुन्दुभयोऽभि क्रोशन्तु या दिशः । सेनाः पराजिता यतीरमित्राणामनीकशः
आदित्य चक्षुरा दत्स्व मरीचयोऽनु धावत । पत्सङ्गिनीरा सजन्तु विगते बाहुवीर्ये
यूयमुग्रा मरुतः पृश्निमातर इन्द्रेण युजा प्र मृनीत शत्रून् । सोमो राजा वरुणो राजा महादेव उत मृत्युरिन्द्रः
एता देवसेनाः सूर्यकेतवः सचेतसः । अमित्रान् नो जयन्तु स्वाहा
अग्निस्तक्मानमप बाधतामितः सोमो ग्रावा वरुणः पूतदक्षाः । वेदिर्बर्हिः समिधः शोशुचाना अप द्वेषांस्यमुया भवन्तु
अयं यो विश्वान् हरितान् कृणोष्युच्छोचयन्न् अग्निरिवाभिदुन्वन् । अधा हि तक्मन्न् अरसो हि भूया अधा न्यङ्ङधरान् वा परेहि
यः परुषः पारुषेयोऽवध्वंस इवारुणः । तक्मानं विश्वधावीर्याधराञ्चं परा सुवा
अधराञ्चं प्र हिणोमि नमः कृत्वा तक्मने । शकम्भरस्य मुष्टिहा पुनरेतु महावृषान्
ओको अस्य मूजवन्त ओको अस्य महावृषाः । यावज्जातस्तक्मंस्तावान् असि बल्हिकेषु न्योचरः
तक्मन् व्याल वि गद व्यङ्ग भूरि यावय । दासीं निष्टक्वरीमिच्छ तां वज्रेण समर्पय
तक्मन् मूजवतो गच्छ बल्हिकान् वा परस्तराम् । शूद्रामिच्छ प्रफर्व्यं तां तक्मन् वीव धूनुहि
महावृषान् मूजवतो बन्ध्वद्धि परेत्य । प्रैतानि तक्मने ब्रूमो अन्यक्षेत्राणि वा इमा
अन्यक्षेत्रे न रमसे वशी सन् मृडयासि नः । अभूदु प्रार्थस्तक्मा स गमिष्यति बल्हिकान्
यत्त्वं शीतोऽथो रूरः सह कासावेपयः । भीमास्ते तक्मन् हेतयस्ताभिः स्म परि वृङ्ग्धि नः
मा स्मैतान्त्सखीन् कुरुथा बलासं कासमुद्युगम् । मा स्मातोऽर्वाङैः पुनस्तत्त्वा तक्मन्न् उप ब्रुवे
तक्मन् भ्रात्रा बलासेन स्वस्रा कासिकया सह । पाप्मा भ्रातृव्येण सह गछामुमरणं जनम्
तृतीयकं वितृतीयं सदन्दिमुत शारदम् । तक्मानं शीतं रूरं ग्रैष्मं नाशय वार्षिकम्
गन्धारिभ्यो मूजवद्भ्योऽङ्गेभ्यो मगधेभ्यः । प्रैष्यन् जनमिव शेवधिं तक्मानं परि दद्मसि
ओते मे द्यावापृथिवी ओता देवी सरस्वती । ओतौ म इन्द्रश्चाग्निश्च क्रिमिं जम्भयतामिति
अस्येन्द्र कुमारस्य क्रिमीन् धनपते जहि । हता विश्वा अरातय उग्रेण वचसा मम
यो अक्ष्यौ परिसर्पति यो नासे परिसर्पति । दतां यो मध्यं गच्छति तं क्रिमिं जम्भयामसि
सरूपौ द्वौ विरूपौ द्वौ कृष्णौ द्वौ रोहितौ द्वौ । बभ्रुश्च बभ्रुकर्णश्च गृध्रः कोकश्च ते हताः
ये क्रिमयः शितिकक्षा ये कृष्णाः शितिबाहवः । ये के च विश्वरूपास्तान् क्रिमीन् जम्भयामसि
उत्पुरस्तात्सूर्य एति विश्वदृष्टो अदृष्टहा । दृष्टांश्च घ्नन्न् अदृष्टांश्च सर्वांश्च प्रमृणन् क्रिमीन्
येवाषासः कष्कषास एजत्काः शिपवित्नुकाः । दृष्टश्च हन्यतां क्रिमिरुतादृष्टश्च हन्यताम्