अतिमात्रमवर्धन्त नोदिव दिवमस्पृशन् । भृगुं हिंसित्वा सृञ्जया वैतहव्याः पराभवन्
ये बृहत्सामानमाङ्गिरसमार्पयन् ब्राह्मणं जनाः । पेत्वस्तेषामुभयादमविस्तोकान्यावयत्
ये ब्राह्मणं प्रत्यष्ठीवन् ये वास्मिञ्छुल्कमीषिरे । अस्नस्ते मध्ये कुल्यायाः केशान् खादन्त आसते
ब्रह्मगवी पच्यमाना यावत्साभि विजङ्गहे । तेजो राष्ट्रस्य निर्हन्ति न वीरो जायते वृषा
क्रूरमस्या आशसनं तृष्टं पिशितमस्यते । क्षीरं यदस्याः पीयते तद्वै पितृषु किल्बिषम्
उग्रो राजा मन्यमानो ब्राह्मणं यो जिघत्सति । परा तत्सिच्यते राष्ट्रं ब्राह्मणो यत्र जीयते
अष्टापदी चतुरक्षी चतुःश्रोत्रा चतुर्हनुः । द्व्यास्या द्विजिह्वा भूत्वा सा राष्ट्रमव धूनुते ब्रह्मज्यस्य
तद्वै राष्ट्रमा स्रवति नावं भिन्नामिवोदकम् । ब्रह्माणं यत्र हिंसन्ति तद्राष्ट्रं हन्ति दुछुना
तं वृक्षा अप सेधन्ति छायां नो मोप गा इति । यो ब्राह्मणस्य सद्धनमभि नारद मन्यते
विषमेतद्देवकृतं राजा वरुणोऽब्रवीत्। न ब्राह्मणस्य गां जग्ध्वा रास्त्रे जागार कश्चन
नवैव ता नवतयो या भूमिर्व्यधूनुत । प्रजां हिंसित्वा ब्राह्मणीमसंभव्यं पराभवन्
यां मृतायानुबध्नन्ति कूद्यं पदयोपनीम् । तद्वै ब्रह्मज्य ते देवा उपस्तरणमब्रुवन्
अश्रूणि कृपमानस्य यानि जीतस्य वावृतुः । तं वै ब्रह्मज्य ते देवा अपां भागमधारयन्
येन मृतं स्नपयन्ति श्मश्रूणि येनोन्दते । तं वै ब्रह्मज्य ते देवा अपां भागमधारयन्
न वर्षं मैत्रावरुणं ब्रह्मज्यमभि वर्षति । नास्मै समितिः कल्पते न मित्रं नयते वशम्
5.20 उच्चैर्घोषो दुन्दुभिः सत्वनायन् वानस्पत्यः संभृत उस्रियाभिः । वाचं क्षुणुवानो दमयन्त्सपत्नान्त्सिंह इव जेष्यन्न् अभि तंस्तनीहि
सिंह इवास्तानीद्द्रुवयो विबद्धोऽभिक्रन्दन्न् ऋषभो वासितामिव । वृषा त्वं वध्रयस्ते सपत्ना ऐन्द्रस्ते शुष्मो अभिमातिषाहः
वृषेव यूथे सहसा विदानो गव्यन्न् अभि रुव संधनाजित्। शुचा विध्य हृदयं परेषां हित्वा ग्रामान् प्रच्युता यन्तु शत्रवः
संजयन् पृतना ऊर्ध्वमायुर्गृह्या गृह्णानो बहुधा वि चक्ष्व । दैवीं वाचं दुन्दुभ आ गुरस्व वेधाः शत्रूणामुप भरस्व वेदः
दुन्दुभेर्वाचं प्रयतां वदन्तीमाशृण्वती नाथिता घोषबुद्धा । नारी पुत्रं धावतु हस्तगृह्यामित्री भीता समरे वधानाम्
पूर्वो दुन्दुभे प्र वदासि वाचं भूम्याः पृष्ठे वद रोचमानः । अमित्रसेनामभिजञ्जभानो द्युमद्वद दुन्दुभे सूनृतावत्
अन्तरेमे नभसी घोषो अस्तु पृथक्ते ध्वनयो यन्तु शीभम् । अभि क्रन्द स्तनयोत्पिपानः श्लोककृन् मित्रतूर्याय स्वर्धी
धीभिः कृतः प्र वदाति वाचमुद्धर्षय सत्वनामायुधानि । इन्द्रमेदी सत्वनो नि ह्वयस्व मित्रैरमित्राँ अव जङ्घनीहि
संक्रन्दनः प्रवदो धृष्णुषेणः प्रवेदकृद् बहुधा ग्रामघोषी । श्रेयो वन्वानो वयुनानि विद्वान् कीर्तिं बहुभ्यो वि हर द्विराजे
श्रेयःकेतो वसुजित्सहीयान्त्संग्रामजित्संशितो ब्रह्मणासि । अंशून् इव ग्रावाधिषवणे अद्रिर्गव्यन् दुन्दुभेऽधि नृत्य वेदः
शत्रूषाण्नीषादभिमातिषाहो गवेषणः सहमान उद्भित्। वाग्वीव मन्त्रं प्र भरस्व वाचं सांग्रामजित्यायेषमुद्वदेह
अच्युतच्युत्समदो गमिष्ठो मृधो जेता पुरएतायोध्यः । इन्द्रेण गुप्तो विदथा निचिक्यद्धृद्द्योतनो द्विषतां याहि शीभम्
विहृदयं वैमनस्यं वदामित्रेषु दुन्दुभे । विद्वेषं कश्मशं भयममित्रेषु नि दध्मस्यव एनान् दुन्दुभे जहि
उद्वेपमाना मनसा चक्षुषा हृदयेन च । धावन्तु बिभ्यतोऽमित्राः प्रत्रासेनाज्ये हुते
वानस्पत्यः संभृत उस्रियाभिर्विश्वगोत्र्यः । प्रत्रासममित्रेभ्यो वदाज्येनाभिघारितः