असितं ते प्रलयनमास्थानमसितं तव । असिक्नी अस्योषधे निरितो नाशया पृषत्
अस्थिजस्य किलासस्य तनूजस्य च यत्त्वचि । दूष्या कृतस्य ब्रह्मणा लक्ष्म श्वेतमनीनशम्
सुपर्णो जातः प्रथमस्तस्य त्वं पित्तमासिथ । तदासुरी युधा जिता रूपं चक्रे वनस्पतीन्
आसुरी चक्रे प्रथमेदं किलासभेषजमिदं किलासनाशनम् । अनीनशत्किलासं सरूपामकरत्त्वचम्
सरूपा नाम ते माता सरूपो नाम ते पिता । सरूपकृत्त्वमोषधे सा सरूपमिदं कृधि
श्यामा सरूपंकरणी पृथिव्या अध्युद्भृता । इदमू षु प्र साधय पुना रूपाणि कल्पय
यदग्निरापो अदहत्प्रविश्य यत्राकृण्वन् धर्मधृतो नमांसि । तत्र त आहुः परमं जनित्रं स नः संविद्वान् परि वृङ्ग्धि तक्मन्
यद्यर्चिर्यदि वासि शोचिः शकल्येषि यदि वा ते जनित्रम् । ह्रूडुर्नामासि हरितस्य देव स नः संविद्वान् परि वृङ्ग्धि तक्मन्
यदि शोको यदि वाभिशोको यदि वा राज्ञो वरुणस्यासि पुत्रः । ह्रूडुर्नामासि हरितस्य देव स नः संविद्वान् परि वृङ्ग्धि तक्मन्
नमः शीताय तक्मने नमो रूराय शोचिषे कृणोमि । यो अन्येद्युरुभयद्युरभ्येति तृतीयकाय नमो अस्तु तक्मने
आरेऽसावस्मदस्तु हेतिर्देवासो असत्। आरे अश्मा यमस्यथ
सखासावस्मभ्यमस्तु रातिः सखेन्द्रो भगः । सविता चित्रराधाः
यूयं नः प्रवतो नपान् मरुतः सूर्यत्वचसः । शर्म यच्छथ सप्रथाः
सुषूदत मृडत मृडया नस्तनूभ्यो । मयस्तोकेभ्यस्कृधि
अमूः पारे पृदाक्वस्त्रिषप्ता निर्जरायवः । तासां जरायुभिर्वयमक्ष्यावपि व्ययामस्यघायोः परिपन्थिनः
विषूच्येतु कृन्तती पिनाकमिव बिभ्रती । विष्वक्पुनर्भुवा मनोऽसमृद्धा अघायवः
न बहवः समशकन् नार्भका अभि दाधृषुः । वेणोरद्गा इवाभितोऽसमृद्धा अघायवः
प्रेतं पादौ प्र स्फुरतं वहतं पृणतो गृहान् । इन्द्रान्येतु प्रथमाजीतामुषिता पुरः
उप प्रागाद्देवो अग्नी रक्षोहामीवचातनः । दहन्न् अप द्वयाविनो यातुधानान् किमीदिनः
प्रति दह यातुधानान् प्रति देव किमीदिनः । प्रतीचीः कृष्णवर्तने सं दह यातुधान्यः
या शशाप शपनेन याघं मूरमादधे । या रसस्य हरणाय जातमारेभे तोकमत्तु सा
पुत्रमत्तु यातुधानीः स्वसारमुत नप्त्यम् । अधा मिथो विकेश्यो वि घ्नतां यातुधान्यो वि तृह्यन्तामराय्यः
अभीवर्तेन मणिना येनेन्द्रो अभिवावृधे । तेनास्मान् ब्रह्मणस्पतेऽभि राष्ट्राय वर्धय
अभिवृत्य सपत्नान् अभि या नो अरातयः । अभि पृतन्यन्तं तिष्ठाभि यो नो दुरस्यति
अभि त्वा देवः सविताभि षोमो अवीवृधत्। अभि त्वा विश्वा भूतान्यभीवर्तो यथाससि
अभीवर्तो अभिभवः सपत्नक्षयणो मणिः । राष्ट्राय मह्यं बध्यतां सपत्नेभ्यः पराभुवे
उदसौ सूर्यो अगादुदिदं मामकं वचः । यथाहं शत्रुहोऽसान्यसपत्नः सपत्नहा
सपत्नक्षयणो वृषाभिरष्ट्रो विषासहिः । यथाहमेषां वीराणां विराजानि जनस्य च
विश्वे देवा वसवो रक्षतेममुतादित्या जागृत यूयमस्मिन् । मेमं सनाभिरुत वान्यनाभिर्मेमं प्रापत्पौरुषेयो वधो यः
ये वो देवाः पितरो ये च पुत्राः सचेतसो मे शृणुतेदमुक्तम् । सर्वेभ्यो वः परि ददाम्येतं स्वस्त्येनं जरसे वहाथ