योऽस्य चतुर्थः प्राणो विभूर्नामायं स पवमानः
The fourth prāṇa of his, named Vibhū, is Pavamāna.
योऽस्य पञ्चमः प्राणो योनिर्नाम ता इमा आपः
The fifth prāṇa of his, named Yoni, these are the Waters.
योऽस्य षष्ठः प्राणः प्रियो नाम त इमे पशवः
The sixth prāṇa of his, named Priya, these are the cattle.
योऽस्य सप्तमः प्राणोऽपरिमितो नाम ता इमाः प्रजाः
The seventh prāṇa of his, named Aparimita, these are the creatures.
योऽस्य प्रथमोऽपानः सा पौर्णमासी
The first apāna of his, that is the Full Moon.
योऽस्य द्वितीयोऽपानः साष्टका
The second apāna of his, that is the Aṣṭakā.
योऽस्य तृतीयोऽपानः सामावास्या
The third apāna of his, that is the Sāmāvāsyā.
योऽस्य चतुर्थोऽपानः सा श्रद्धा
The fourth apāna of his, that is Faith.
योऽस्य पञ्चमोऽपानः सा दीक्षा
The fifth sole of his is consecration.
योऽस्य षष्ठोऽपानः स यज्ञः
The sixth sole of his is the sacrifice.
योऽस्य सप्तमोऽपानस्ता इमा दक्षिणाः
The seventh sole of his—these are the gifts.
योऽस्य प्रथमो व्यानः सेयं भूमिः
The first breath of his is this earth.
योऽस्य द्वितीयो व्यानस्तदन्तरिक्षम्
The second breath of his is that midspace.
योऽस्य तृतीयो व्यानः सा द्यौः
The third breath of his is the sky.
योऽस्य चतुर्थो व्यानस्तानि नक्षत्राणि
The fourth breath of his—these are the stars.
योऽस्य पञ्चमो व्यानस्त ऋतवः
The fifth breath of his—these are the seasons.
योऽस्य षष्ठो व्यानस्त आर्तवाः
The sixth breath of his—these are the periods.
योऽस्य सप्तमो व्यानः स संवत्सरः
The seventh breath of his is the year.
समानमर्थं परि यन्ति देवाः संवत्सरं वा एतदृतवोऽनुपरियन्ति व्रात्यं च
The gods move around a common purpose; the seasons, indeed, follow the year and also the Vrātya.
यदादित्यमभिसंविशन्त्यमावास्यां चैव तत्पौर्णमासीं च
When they enter the sun, and at the new moon and at the full moon,
एकं तदेषाममृतत्वमित्याहुतिरेव
That alone is their immortality—namely, the offering.
तस्य व्रात्यस्य
Of that Vrātya—
यदस्य दक्षिणमक्ष्यसौ स आदित्यो यदस्य सव्यमक्ष्यसौ स चन्द्रमाः
His right eye is the sun; his left eye is the moon.
योऽस्य दक्षिणः कर्णोऽयं सो अग्निर्योऽस्य सव्यः कर्णोऽयं स पवमानः
His right ear is Agni; his left ear is Pavamāna.
अहोरात्रे नासिके दितिश्चादितिश्च शीर्षकपाले संवत्सरः शिरः
Day and night are his nostrils; Diti and Aditi are his skull-plates; the year is his head.
अह्ना प्रत्यङ्व्रात्यो रात्र्या प्राङ्नमो व्रात्याय
By day he faces west, the Vrātya; by night he faces east. Homage to the Vrātya.
अतिसृष्टो अपां वृषभोऽतिसृष्टा अग्नयो दिव्याः
Released is the bull of the waters; released are the divine fires.
रुजन् परिरुजन् मृणन् प्रमृणन्
Breaking, surrounding, crushing, and utterly destroying.
म्रोको मनोहा खनो निर्दाह आत्मदूषिस्तनूदूषिः
The destroyer, the mind-stealer, the digger, the burner, the self-corrupting, the body-corrupting.
इदं तमति सृजामि तं माभ्यवनिक्षि
This darkness I send forth; may it not envelop me.