हतो येवाषः क्रिमीणां हतो नदनिमोत । सर्वान् नि मष्मषाकरं दृषदा खल्वामिव
The ram of the worms is slain, the river-dweller is slain as well; I have crushed them all completely, as one crushes grain with a stone.
त्रिशीर्षाणं त्रिककुदं क्रिमिं सारङ्गमर्जुनम् । शृणाम्यस्य पृष्टीरपि वृश्चामि यच्छिरः
The worm with three heads, three humps, the speckled and the white one— I tear apart its backs, I cut off its head.
अत्रिवद्वः क्रिमयो हन्मि कण्ववज्जमदग्निवत्। अगस्त्यस्य ब्रह्मणा सं पिनष्म्यहं क्रिमीन्
Here, like Kanva, like Madagna, I strike down the worms; with the power of Agastya’s prayer, I crush the worms.
हतो राजा क्रिमीणामुतैषां स्थपतिर्हतः । हतो हतमाता क्रिमिर्हतभ्राता हतस्वसा
The king of the worms is slain, and their chief is slain; the mother worm is slain, the brother is slain, the sister is slain.
हतासो अस्य वेशसो हतासः परिवेशसः । अथो ये क्षुल्लका इव सर्वे ते क्रिमयो हताः
Their dwellings are destroyed, their enclosures are destroyed; and all those worms, even the smallest ones, are slain.
सर्वेषां च क्रिमीणां सर्वासां च क्रिमीनाम् । भिनद्म्यश्मना शिरो दहाम्यग्निना मुखम्
Of all the worms, of every kind of worm, I break the head with a stone, I burn the mouth with fire.
सविता प्रसवानामधिपतिः स मावतु । अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा
May Savitar, lord of creations, protect me— in this prayer, in this rite, in this priestly office, in this foundation, in this thought, in this intention, in this wish, in this invocation to the gods— svāhā.
अग्निर्वनस्पतीनामधिपतिः स मावतु । अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा
May Agni, lord of the forest trees, protect me— in this prayer, in this rite, in this priestly office, in this foundation, in this thought, in this intention, in this wish, in this invocation to the gods— svāhā.
द्यावापृथिवी दातॄणामधिपतिः स मावतु । अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा
May Heaven and Earth, lords of givers, protect me— in this prayer, in this rite, in this priestly office, in this foundation, in this thought, in this intention, in this wish, in this invocation to the gods— svāhā.
वरुणोऽपामधिपतिः स मावतु । अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा
May Varuṇa, lord of the waters, protect me— in this prayer, in this rite, in this priestly office, in this foundation, in this thought, in this intention, in this wish, in this invocation to the gods— svāhā.
मित्रावरुणौ वृष्ट्याधिपती तौ मावताम् । अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा
May Mitra and Varuṇa, lords of rain, protect me— in this prayer, in this rite, in this priestly office, in this foundation, in this thought, in this intention, in this wish, in this invocation to the gods— svāhā.
मरुतः पर्वतानामधिपतयस्ते मावन्तु । अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा
May the Maruts, lords of the mountains, protect me— in this prayer, in this rite, in this priestly office, in this foundation, in this thought, in this intention, in this wish, in this invocation to the gods— svāhā.
सोमो वीरुधामधिपतिः स मावतु । अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा
May Soma, lord of the plants, protect me— in this prayer, in this rite, in this priestly office, in this foundation, in this thought, in this intention, in this wish, in this invocation to the gods— svāhā.
वायुरन्तरिक्षस्याधिपतिः स मावतु । अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा
May Vāyu, lord of the midspace, protect me— in this prayer, in this rite, in this priestly office, in this foundation, in this thought, in this intention, in this wish, in this invocation to the gods— svāhā.
सूर्यश्चक्षुषामधिपतिः स मावतु । अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा
May Sūrya, lord of vision, protect me— in this prayer, in this rite, in this priestly office, in this foundation, in this thought, in this intention, in this wish, in this invocation to the gods— svāhā.
चन्द्रमा नक्षत्राणामधिपतिः स मावतु । अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा
May the Moon, lord of the stars, protect me— in this prayer, in this rite, in this priestly office, in this foundation, in this thought, in this intention, in this wish, in this invocation to the gods— svāhā.
इन्द्रो दिवोऽधिपतिः स मावतु । अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा
May Indra, lord of the sky, protect me— in this prayer, in this rite, in this priestly office, in this foundation, in this thought, in this intention, in this wish, in this invocation to the gods— svāhā.
मरुतां पिता पशूनामधिपतिः स मावतु । अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा
May the father of the Maruts, lord of cattle, protect me— in this prayer, in this rite, in this priestly office, in this foundation, in this thought, in this intention, in this wish, in this invocation to the gods— svāhā.
मृत्युः प्रजानामधिपतिः स मावतु । अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा
May Death, the lord of creatures, protect me— in this sacred utterance, in this rite, in this priestly office, in this foundation, in this intention, in this resolve, in this blessing, in this invocation to the gods. Svāhā.
यमः पितॄणामधिपतिः स मावतु । अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा
May Yama, the lord of the ancestors, protect me— in this sacred utterance, in this rite, in this priestly office, in this foundation, in this intention, in this resolve, in this blessing, in this invocation to the gods. Svāhā.
पितरः परे ते मावन्तु । अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा
May those ancestors who are beyond protect me— in this sacred utterance, in this rite, in this priestly office, in this foundation, in this intention, in this resolve, in this blessing, in this invocation to the gods. Svāhā.
तता अवरे ते मावन्तु । अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा
May those who are after them protect me— in this sacred utterance, in this rite, in this priestly office, in this foundation, in this intention, in this resolve, in this blessing, in this invocation to the gods. Svāhā.
ततस्ततामहास्ते मावन्तु । अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा
May those who are after those protect me— in this sacred utterance, in this rite, in this priestly office, in this foundation, in this intention, in this resolve, in this blessing, in this invocation to the gods. Svāhā.
पर्वताद्दिवो योनेरङ्गादङ्गात्समाभृतम् । शेपो गर्भस्य रेतोधाः सरौ पर्णमिवा दधत्
From the mountain, from the sky, from the womb, from limb to limb, it is gathered together; the seed-bearers of the embryo, holding the essence like a leaf.
यथेयं पृथिवी मही भूतानां गर्भमादधे । एवा दधामि ते गर्भं तस्मै त्वामवसे हुवे
Just as this great earth has taken the embryo of beings, so I place your embryo; to him, for help, I call upon you.
गर्भं धेहि सिनीवालि गर्भं धेहि सरस्वति । गर्भं ते अश्विनोभा धत्तां पुष्करस्रजा
Sinīvālī, place the embryo; Sarasvatī, place the embryo; may the two Aśvins, garlanded with lotuses, place the embryo for you.
गर्भं ते मित्रावरुणौ गर्भं देवो बृहस्पतिः । गर्भं त इन्द्रश्चाग्निश्च गर्भं धाता दधातु ते
May Mitra and Varuṇa place the embryo for you; may the god Bṛhaspati place the embryo; may Indra and Agni, may Dhātṛ, place the embryo for you.
विष्णुर्योनिं कल्पयतु त्वष्टा रूपाणि पिंशतु । आ सिञ्चतु प्रजापतिर्धाता गर्भं दधातु ते
May Viṣṇu prepare the womb, may Tvaṣṭṛ shape the forms; may Prajāpati pour in, may Dhātṛ place the embryo for you.
यद्वेद राजा वरुणो यद्वा देवी सरस्वती । यदिन्द्रो वृत्रहा वेद तद्गर्भकरणं पिब
What King Varuṇa knows, or the goddess Sarasvatī, what Indra, the slayer of Vṛtra, knows— drink that which causes conception.
गर्भो अस्योषधीनां गर्भो वनस्पतीनाम् । गर्भो विश्वस्य भूतस्य सो अग्ने गर्भमेह धाः
The embryo of the plants, the embryo of the trees, the embryo of all beings— O Agni, place that embryo here.